न्यायदर्शनशास्त्रस्य आरोपतत्त्वम्
Abstract
सौन्दर्यस्य भित्तिरूपेण आरोपः स्वीकृत: । आरोपेण कविकल्पनं सहृदयग्राह्यं भवति । यस्मिन् यो धर्मः नास्ति तत्र तद्धर्मस्य कल्पनम् आरोपशब्देन कथ्यते। ईश्वरस्य जगत् नियमेन परिचालितम् । अतः ईश्वरस्य जगत् सीमितम्। अथः ब्रह्मसृष्टे जगति सरोजस्य उत्पत्तिः केवलं सरोवरे सम्भवति । किन्तु कविकल्पने वदने कमलस्य उत्पत्तिः सम्भवति। अर्थात् वतने कमलस्य आरोपः भवति। वैदिकशास्त्रेऽपि ऋषिकल्पने आरोपः दृश्यते । तैत्तीरियसंहितायां दृश्यते " यजमानः प्रस्तरः " (तै.सं. २६५) इत्यत्र प्रस्तरः तत्सिद्धित्वात् कल्पनेन प्रस्तरे यजमानस्य आरोपः दृश्यते। सूर्यमूक्तेऽपि ऋषिणा सूर्यदेवता मित्रवरुणाग्निदेवतायाः चक्षुरूपेण अभिहिता । ऋगवेदस्य सूर्यसूक्ते लक्ष्यते "चक्षुर्मित्रस्य वरुणस्याग्नेः "दद्धा न्तेषु औपचारिकात्मकानि सूत्राणि सोदाहरणमु पपद्यन्ते । न्यायदर्शनस्य प्रमाणतत्त्वे अन्यथाख्यातिवादे च आरोपतत्त्वमालोचितम्। अपवर्गस्य आलोचनायाम् आरोपः दृष्टः यथा— “तदत्यन्तविमोक्षोऽपवर्गः ।।" इति (१ ११ १२२) । अस्मिन् विषये दुःखस्य आलोचनायां भाष्यकारः अपि गदति जन्म स्वरूपतया न दुःखपदार्थः, सुखमपि न स्वरूपतया दुःखपदार्थ इति स्वीकारोति। दुखस्य उपचारतः जन्म सुखञ्च दुःखपदार्थरूपेण उपचर्य्यते । अतः दुःखस्यायतनं शरीरम्, दुःखस्य साधनमीन्द्रियम्, स्वयमेव सुखपदार्थश्च दुःखनुसवतरूपेण प्रतिपद्येते ते पदार्थाः गौणदुःखरूपेण प्रतिपद्यते। न्यायदर्शने अन्यत्रापि पदार्थसिद्धौ व्यक्तेः पदार्थत्वसंशये आरोपः परिलक्षितः। यथा— व्यक्तिः यदि पदार्थः न भवति, तर्हि व्यक्तौ कथमु पचारस्य प्रयोगः परिलक्सयते इति समुपस्थिते संशये तत्र उच्यते वस्तुतः निमित्तत्वात् यद्यपि तद्भावः न निघते, तथापि तदुचपचारस्य प्रयोगः परिलक्ष्यते। अतः महर्षिगीतमपादैः सूत्रितम् — “सहचरण-स्थान- तादर्थ्य-वृत्त- मान-धारण सामीप्य-योग-साधनाधिपत्थेभ्योः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पु रुषे तद्भावेऽपि तदुपचारः।।" इति । अनेन सूत्रेण आरोपः स्पष्टीक्रियते यथा "योष्टिकां भोजयेत्" इत्यस्मिन् प्रयोगे यष्टिकाशब्देन यष्टिकामहचरितः ब्राह्मणः बोध्यते । इत्थं प्रयोगः निमित्ततः सम्भवति। अत्र यष्टिकाशब्दे लक्ष्यार्थं गृह्यते। अत्र यष्टिकाशब्दे यष्टिकासहचरितस्य ब्राह्मणस्य आरोपः उपपद्यते। वैशेषिकदर्शने अपि अनेन प्रकारेण औपचारिकसूत्राणां पर्यालोचनं क्रियते ।
Downloads
Published
How to Cite
Issue
Section
License
Copyright (c) 2023 Teachers' Journal
This work is licensed under a Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International License.