कालिदाससृष्टिषु दार्शनिकतत्त्वानां स्वरूपपर्यालोचनम्

Authors

  • Dr. Nitai Pal Dr. Nitai Pal Kalyani University

Abstract

कालिदाससृष्टिषु दार्शनिकतत्त्वानां स्वरूपपर्यालोचनम्

उपोद्घातः  दर्शनस्य तत्त्वमिति षष्ठीतत्पुरुषेण दर्शनतत्त्वमिति निश्पन्नम्। तेषां दार्शनिकतत्त्वानां स्वरूपपर्यालोचनमस्य निवन्धस्य विषयः। अधुना प्रश्नाः उदेति कः तावत् अस्य निवन्धस्य अधिकारी? ये जनाः स्वल्पेनायासेन कालिदासस्य साहित्यमवलम्ब्य दार्शनिकतत्त्वं ज्ञातुमिच्छन्ति तेषां कृते अस्य निबन्धस्य प्रयोजनीयता अस्ति। महाकविः कालिदासः संस्कृतसाहित्याकाशे उज्ज्वलनक्षत्र इव सर्वातिशयिस्थानमलंकतोति अत्र मनागपि संशयः नास्ति। स वहुनि महाकाव्याणि नाटकानि च विरचितवान्। “कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलमिति प्रवादः अपि लोके प्रचलति। नाट्यशास्त्राकारः आचार्यः भरतः अपि नाट्यशास्त्रे कथितवान् –

“न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला।

नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते॥” इति। (जगदानन्द, २०१५)

इति भरतमुनिप्रणीतस्य नाट्यशास्त्रवनमवलम्ब्य अनायासेन कथ्यते नाटकं ज्ञानशिल्पकलाविद्यायोगकर्माणां समन्बितं स्वरूपमिति सिद्ध्यति। ज्ञानशब्देन अत्र आत्मतत्त्वमपि कथितम्। भारतीयपण्डिताः सदैव आत्मतत्त्वान्वेषणाय ज्ञानलाभाय च तत्पराः इति विदितचरमेव। (चतुर्वेदी, २०१४) अस्मिन् विषये कविः पण्डितेभ्यः न पृथकः भवति। काव्यालंकारकारेण भामहेन उच्यते-

“धर्मार्थकाममोक्षेषु वैचक्षणं कलासु च।

करोति कीर्तिं प्रीतिञ्च साधुकाव्यनिषेवनम्॥” इति।[1] (चौधुरी, २०१६)

काव्यं धर्माथकाममोक्षाणामुत्कृष्टमार्गः भवति यथा तत्त्वशास्त्रसमन्वितं दर्शनशास्त्रम्। भारतीयदर्शनम् आस्तिकनास्तिकभेदेन द्विधा विभक्तमस्ति। कालिदासः आस्तिकः आसीत्। तस्य काव्ये आस्तिकदर्शनस्य तत्त्वं कालिदासः स्वयमेव पुरोस्करोति। यद्यपि कालिदासः स्वतन्त्ररूपेण श्रीहर्ष इव कोऽपि दर्शनग्रन्थः न विरचितनान्, किन्तु स तस्य ग्रन्थेषु सर्वत्र एव दार्शनिकतत्त्वं प्रदर्शयति। दार्शनिकतत्त्वपूर्णं साहित्यशास्त्रं नितरां नृपाणां मोक्षप्राप्तये उपकरोति नातिसंशयः।

        “दृशि ज्ञाने” इति धातुपाठः अस्ति। अस्य अर्थस्तावत् ज्ञानमिति भवति। अतः ज्ञानार्थकदृश्-धातोः भावकरणयोर्ल्युङिति “ल्युट्” प्रत्ययेन दर्शनशब्दः निष्पन्नः। दृश्यते ज्ञायते परमतत्त्वमनेन इति दर्शनम्। तत्र अस्ति पारलौकिककविप्रवृत्तिर्यस्य स आस्तिकः यथा न्याय-वैशेषिकः, सांख्य-योगः, मीमांसा-वेदान्तश्चेति। अन्यत्रापि नास्ति च पारलौकिकविषयप्रवृत्तिर्यस्य स नास्तिकः। संस्कृतवाङ्मयस्य मूर्धन्यस्थानमलंकरोति महाकविकालिदासः। तेन समुचितवर्णनेन तस्य ग्रन्थे दार्शनिकतत्त्वं प्रदर्शितम्। प्रायः दार्शनिकदृष्ट्या जागतिकतत्त्वान्वेषणाय शाश्वतसत्यान्वेषणाय ऐश्वरिकतत्त्वान्वेषणाय च भारतीयदर्शनस्य सर्वे सम्प्रदायाः समागताः सन्ति।

पर्यालोचितविषयाः  

  • सृष्टितत्त्वम्
  • प्रमाणतत्त्वम्
  • योगतत्त्वम्
  • निर्वाणतत्त्वम्
  • जगत्कारणम्
  • गुणतत्त्वम्
  • मोक्षस्वरूपम्
  • ज्ञानमीमांसा
  • तत्त्वमीमांसा
  • कर्ममीमांसा
  • आचारतत्तम्

इत्यादयाः अंशाः प्रमुखतया विचारितमस्ति। एतानि दर्शनस्य मूलभूततत्त्वाणि मनसि निधाय कालिदासनाटकेषु दार्शनिकतत्त्वान्वेषणाय निवन्धः अयं प्रस्तूयते।

॥सृष्टितत्त्वम्॥

ऋग्वेदीयसूक्तादारभ्य भारतीयदर्शनं यावत् सर्वत्र सृष्टितत्त्वमस्ति इत्यात्र मनागपि संशयः नास्ति। ऋग्वेदस्य नासदीयसूक्ते, पुरुषसूक्ते, हिरण्यगर्भसूक्ते च सृष्टितत्त्वानां भूयः भूयः समाहारोऽवलक्यते। तथाहि ऋग्वेदे आम्नायते –

“नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्” इति।[1] (नीलाञ्जना, २०१५)

जगतः जन्म तर्हि कथंकारमभवति इति जाते प्रश्ने आम्नायते –

“तपसस्तन्महिनाजायत” इति।[2] (नीलाञ्जना, २०१५)

पुरुषसूक्ते पुनः ऋषिणा नारायणेन परमात्मनः सकाशादेव अखिलप्रपञ्चस्यास्य सर्वेषां स्थावरजङ्गमात्मकानां च प्राणीनां सृष्टिरुदीरिता। स पुरुषः द्व्यव्यापृथिवौ सर्वत्ररेव समरूपेण विराजते। स प्रलयानन्तरं सर्वेषां प्राणिनां कर्मफलभोगाय स्वीयां कारणवस्थामतिक्रम्य परिदृश्यमानां जगदावस्थां प्राप्नोति। तथा हि उच्यते –

                   “सहस्रशीर्षा सहस्राक्षः सहस्रपात्” इति। [3](नीलाञ्जना, २०१५)

भारतीयदर्शनेषु सृष्टितत्त्वं वहुविस्तृतविवेचितमस्ति इत्यत्र नास्ति संशयः। साह्त्यशास्त्रेऽपि अस्मिन् विषये महाकविः कालिदासः ईषदालोचितवान्। तत्र वहवः प्रश्नाः जाताः, कथंकातरं ईयं सृष्टिः सम्भवति? सृष्टिकर्ता आदौ कं विषयं सृष्टवान्? ततः कस्मात् कस्य सृष्टिः अभवत्? प्रलयकाले चराचरमिदं कथं विनष्टमिति विविधाः प्रश्नाः समायान्ति। ऋग्वेदे दृश्यते – “कामस्तदग्रे समवर्तत” इति। [4] (नीलाञ्जना, २०१५) ईश्वरस्य मनसि सिसृक्षाजायत। तथाहि श्रुतं तैत्तिरीयारण्यके – सोऽकामयत बहुस्यां प्रजायेयेति स तपोऽतप्यत सर्वमसृजत यदिदं किञ्च” इति [5] (भर्गानन्द, २०१३) छान्दग्यश्रुतौ अपि प्रतिपादितम् – बहु स्यां प्रजायेय इति सिसृक्षा जाता। सिसृक्षावशाच्च स आत्मनः तेजो जलं पृथिवी चेति भूतत्रयाणां सृष्टिमकरोत्। केवलं भूतत्रयस्य सृष्ट्या तस्य वहुभवनस्पृहा न सफलतां गता। ततः स त्रीणि भूतानि गुणप्रधानतया संमिश्रीकृत्य त्रिवृत्कृततेजोजलपिथिनीनां सृष्टिमकरोत्। न केवलं वैदिकसंहितायामपि च कालिदाससृष्टौ एतेषां सर्वेषां प्रश्नानां समाधानं प्राप्तुं शक्यते। सृष्टिविषये कालिदासस्य विक्रमोर्वशीयमिति नाटकस्य मङ्गलचरणश्लोके ज्ञायते। अत्र कविः अद्वैतवेदान्तानुसारं जगत्कारणं प्रतिपादितम्। तथाहि उच्यते कविना –

“वेदान्तेषु यमाहुरेकपुरुषं व्यप्य स्थितं रोदसी

यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो ययार्थाक्षरः।

अन्तर्यश्च मुमुक्षुंइर्नियमितप्राणादिभिर्मृग्यते

स स्थानुः स्थिर-भक्ति-योग-सुलभो निःश्रेयसायाऽस्तुवः॥” [6] (पाण्डेय, २०१६)

 अस्य श्लोकस्याशयस्तावत् वेदान्ते महादेवः एकपुरुषरूपेण वर्तते। स आकाशं पृथिवीञ्च आच्छाद्य अस्ति। स ईश्वरशब्दवाच्यः भवति। यं ज्ञातुं पदार्थान्तरं नास्ति। मुमुक्षुजनः मनसि तस्य चित्रं ध्यानदशायां सदैव चिन्तयति। स्थिरभक्ति-योग-सुलभः सः महादेवः अस्माकं कल्याणयामासुः। परमब्रह्मः दृश्यमानजगतः कारणमिति। परमब्रह्मणः इच्छया जगतः सृष्टिः भवति। तस्य इच्छया जगतः विनाशः सम्भवति। स जगतः स्थावरजङ्गमात्मकानां प्राणिनां पोषणं रक्षणञ्च करोति। अद्वैतपरमेश्वरः ब्रह्मः। पोषणात् सैव विषुरिति लोकव्यवहारः प्रचलितः अस्ति। संहारे स महेश्वररूपेण प्रसिद्धः। सत्वादिगुणापेतपरमात्मनः उत्पत्ति-स्थिति-लयरूप-कार्यकारणात् केअमशः ब्रह्मा, विष्णुः, महेश्वररिति त्रीभि नामभिः प्रसिद्धः वर्तते। कालिदासस्य अभिज्ञानशकुन्तलमिति नाटकस्य नान्दीश्लोकेऽपि सृष्टितत्त्वं परिलक्ष्यते। तत्रोच्यते –

“या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री

ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।

यामाहुः सर्वबीजप्रकृतिरि यया प्राणिनः प्राणवन्तः

प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥” इति। [7] (चक्रवर्ती, २००८)

अस्मिन् श्लोके प्राथम्येन जलमिति तत्त्वस्य रचनं प्रतिपद्यते। मनुसंहितायामपि दृश्यते “अप एव ससर्जादौ” अर्थात् सृष्टेः आदिभूतजलमिति। किन्तु कुत्रचित् जलं सृष्टेः आदिभूतं नास्ति। इयं सृष्टिप्रक्रिया श्रुतिसम्मता। शुक्लयजुर्वेदस्य मनुमत्सकथायां सृष्टिप्रक्रिया समर्थयति। तैत्तिरीयोपनिषदि अस्मिन् विषये अवलोक्यते – “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद् वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी पृथिव्या औषधयः औषधिभ्यः अन्नमन्नात् पुरुषः” इति। [8] (भर्गानन्द, २०१३) अत्र जलं सृष्टेरादिभूतं नास्ति। कुल्लुकभट्टेनापि मन्वर्थमुक्तावल्ल्यां कथ्यते – “आदौ स्वकार्यभूमिव्रम्भाण्डसृष्टेः प्राक् अपां सृष्टिश्चेयं महदहंकारतन्मात्रक्रमेण बोध्यव्या महाभूतादिव्यञ्जयन् इति पूर्वाभिधानात्” इति। (वन्द्योपाध्याय, २०१०) कालिदासस्य इयं भावना वर्तते यत् परमेश्वरः ब्रह्माणमुत्पादितवान्। स सृष्टिविधाननं परमेश्वरप्रसूतमिति। अतः कालिदासः ब्रह्मरूपपरमेश्वरस्य स्तुतिं कुर्वन् आह हे प्रजापते! त्वं पितृणामपि पिता असि, देवानामपि देव असि, परमपुरुषादपि भिन्नमसि। तथाहि उच्यते –

“त्वं पितृमामपि पिता देवानामपि देवता।

परतोऽपि परश्चाऽसि विधाता वेधसामपि॥” इति। [9] (शर्मा, २०१३)

जगदुत्पत्तिविषये “यतो वा इमानि भूतानि जायन्ते’, येन जातानि जीवन्ति’, इति वेदान्तवाक्येन सह कालिदासस्य रधुवंशमिति महाकाव्यस्य श्लोकसाकल्येन सह सादृश्यं दृश्यते यथा –

“नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते।

अथ विश्वस्य संहत्रे तुभ्यं त्रेधास्तितात्मने॥” इति।[10] (त्रिपाथी, २०१६)

 

जन्मजरामरणादिभ्यः आत्यन्तिकमुक्तिः एव भारतीयदर्शनस्य मूलसिद्धान्तः अस्ति। न्यायदर्शनेऽपि महर्षिगौतमेन आकलितम् – “दुःखजन्मप्रवृत्तिमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरमपायेऽपवर्गः” इति। [11] (तर्कवागीश, २०१६) अतः भारतीयदर्शनशास्त्रे ज्ञानस्य महत्वं बहुचर्चितमस्ति। यद्यपि महाकविः कालिदासः अस्मिन् विषये किमपि न वदति, तथापि तस्य साहित्यकर्मणि ज्ञानस्य माहात्म्यं तथा प्रमाणतत्त्वं पर्यालोचितम्। प्रमाकरणं प्रमाणमिति। प्रमा नाम यथार्थज्ञानम्। तर्कसंग्रहः इति ग्रन्थे अन्नंभट्टेनापि कथ्यते – “सर्वव्यवहारहेतुर्गुण वुद्धिर्ज्ञानम्” इति। [12] (चत्रवर्ती, २०१३) प्रमाणविषये भारतीयदर्शने भिन्नानां दार्शनिकानां मतवैमत्यमस्ति। “प्रत्यक्षमेव प्रमाणम्” इति चार्वाकः गदति। (भट्टाचार्य, २०११) वैशेषिकाः बौद्धाः च द्विविधं प्रमाणं स्वीकुर्वतः यथा प्रत्यक्षमनुमानञ्च। सांख्यदार्शनिकाः त्रिविधप्रमाणं स्वीकरोति यथा प्रत्यक्षमनुमानाप्तश्चेति। नैयायिकाः प्रमाणरूपेण प्रत्यक्षानुमानोपमानशब्दान् स्वीकुर्वन्ति। महाकविकालिदासस्य सृष्टौ बहुत्र प्रमाणविषयकं दार्शनिकतत्त्वं परिलक्ष्यते। यथा –

“सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तकरणप्रवृत्तयः” इति।[13] (चक्रवर्ती, २००८)

यस्मिन् विषये प्रत्यक्षप्रमाणेण यथार्थज्ञानं न सम्भवति तत्र सन्तमहापुरुषाणामन्तःकरणमेव प्रमाणमिति मन्यते। प्रत्यक्षप्रमाणविषयेऽपि विक्रमोर्वशीयनाटकस्य चतुर्थाङ्के दृश्यते-

“अभ्यन्तरकरणया मया प्रत्यक्षीकृतवृत्तान्ताः खलु महाराजः” इति। [14]

(पाण्डेय, २०१६)

मालविकाग्निमित्रमिति नाटकेऽपि मिलति अन्तःकरणप्रमाणम्। यथा – अपि क्वचिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः” इति। [15] अभिज्ञानशकुन्तलमिति नाटके अनुमानप्रमाणस्य दृष्टान्तोऽपि दृश्यते-

“तव सुचरितमङ्गुलीयकं नूनं प्रतनु ममेव विभाव्यते फलेन।

अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदुङ्गुलीषु॥” इति।[16] (चक्रवर्ती, २००८)

यत्र कार्यं दृष्ट्वा कारणमनुमीयते तत्र शेषवदनुमानं भवति। अत्र राज्ञवचनेन अङ्गुलीयकं दृष्ट्वा पूण्यकल्पनमनुमीयते। अत्र शेषवदनुमानम्। अनेन प्रकारेण कालिदासः प्रमाणतत्त्वस्य वहुनि उदाहरणानि प्रदत्तवान्। अन्यत्रापि रघुवंशमिति महाकाव्ये कालिदासः विष्णोः स्तुतिप्रसङ्गे प्रत्यक्ष-अनुमान-आप्तप्रामाणानामुल्लेखः अकरोत्।

“प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव।

आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा”॥ इति।[17] (त्रिपाथी, २०१६)

तस्य काव्यानुशीलनेन ज्ञायते यत् ज्ञानोत्पादकदार्शनिकतत्त्वानां समावेशः अवश्यं कृतवान्। अन्येषु प्रमाणेषु श्रुतिप्रमाणमेव वलवत्तरः।

॥गुणतत्त्वम्॥

आस्तिकदर्शनेषु सांख्यदर्शनमन्यतममस्ति। ईश्वरकृष्णेन गुणत्रयस्य स्वरूपं पर्यालोचितं सांख्यकारियायाम्। तत्रोच्यते –

“सत्तं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।

गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥” इति।[18]

(चक्रवर्ती, २०१०)

शान्ति-सारल्य-सन्तोषपूर्णकामना-तुष्टि-धैर्यानन्दादीनामन्तभार्वेण सुखस्वरूपं सत्त्वं धारयति। अनेन प्रकारेण शोक-कष्ट-वियोगाद्यन्तर्भावेण दुखःस्वरूपं रजः प्रकाशयति। एवमाच्छादनाज्ञान-धृणा-भ्रष्टता-गुरुत्वालस्य मायास्वरूपं तमः धारयति। सांख्यदर्शने प्रधानपदेन प्रकृतिः वोध्यते। प्रकृतिः सृष्टेः मूलकारणमिति मन्यते। सर्वविधानि कर्माणि त्रैगुणैः जायन्ते। तथाहि मालविकाग्निमित्रमिति नाटके उच्यते – “त्रैगुण्योद्भवं लोकचरितम्” इति। [19] कुमारसम्भवमेऽपि समाममेव प्रकारेण दृश्यते -

“तस्मामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम्।

तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः॥” इति। [20] (शर्मा, २०१३)

॥योगतत्त्वम्॥

मकविकालिदासः योगशास्त्रे सुपण्डितः आसीत्। पतञ्जलिना अपि सूत्रितं योगसूत्रे – “योगश्चित्तवृत्तिः निरोधः” इति। [21]  अर्थात् चित्तवृत्तिविरोधपूर्वकम् यमनियमासनप्राणायामप्रत्याहारधारणाध्ययनसमाधिस्वरूपाष्टाङ्गयोगाभ्यासैः परमात्मनः सद्भावं सम्पाद्य विज्ञाः मुक्तिमामनन्ति। कालिदासेन कथ्यते रघुवंशे अभ्यासेन चित्तवृत्तिनिरोधः इति। तस्य महाकाव्ये योगशास्त्रस्य विषयाः काव्यस्य पर्यालोचने दरीदृश्यते। विषयेऽस्मिन् रघुवंशमिति महाकाव्ये दृश्यते –

“अभ्यासनिगृहीतेन मनसा हृदयाश्रयम्।

ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये॥” इति।[22] (त्रिपाथी, २०१६)

अपि तु “न च योगविधेर्नतरः स्थिरधीरा परमात्मदर्शनाथ” इति। [23]

॥मोक्षस्वरूपम्॥

“चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि” इति वचनेन निर्दिश्यते यत् सुकुमारमतिनामपि चतुर्वर्गफलप्राप्तिः भवति। चतुर्वर्गेषु मोक्षः परमपुरुषार्थः। उपनिषदि कथ्यते सांसारिकबन्धनात् मुक्तिः मोक्षः पदवाच्यः भवति। कविः काव्येन मुक्तिमार्गं प्रदर्शयति। अतः मोक्षः मानवजीवनस्य परमलक्ष्यमिति प्रतिस्थापितम्। मोक्षविषये यथा दर्शनशास्त्रे मतवैभिन्नमस्ति तथैव उपनिषदि अपि मतवैभिन्नमस्ति। यथा –

  • विज्ञानमानन्दं ब्रह्म।[24](भर्गानन्द, २०१३)
  • सत्यं ज्ञानमनन्तं ब्रह्म।[25]
  • तरति शोकमात्मवित्।[26]

महाकविकालिदासः वदति मोक्षः नाम तत्त्वसाक्षात्कारः। सः कालिदासः मोक्षपदस्य कृते परार्ध्यगतिः, निःश्रेयसः, अपवर्गः च इत्येषां पदानामुल्लेखमकरोत्। तथा चायं योगाभ्यासादिसाधनसुलभः न भवति। केवलं भक्तियोगेन एव लब्धुं शक्यते। अभिज्ञानशकुन्तलमिति नाटकस्य भरतवाक्ये गदति कालिदासः –

“मामपि च क्षपयतु नीललोहितः

पुनर्भवं परिगतशक्तिरात्मभूः।” इति।[27] (चक्रवर्ती, २००८)

वस्तुतः मोक्षः नाम ब्रह्मतत्त्वेन सह जीवस्य अद्वयभावः स्वस्वरूपावबोधः। कालिदासः गदति मोक्षः नाम ब्रह्मभूयं गतिम् इति।

॥कर्ममीमांसातत्त्वम्॥

महाकविकालिदासस्य साहित्ये वहुत्र कर्ममीमांसायाः तत्त्वं परिलक्ष्यते। मनुष्यः स्वीयकृतकर्मफलमवश्यमेव भोक्तारः भवन्ति। अभिज्ञानशकुन्तलमिति नाटके दृश्यते –

“तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन।

अरुणनरवमनोहरासु तस्याश्च्युतमसि लब्धपदम् यदङ्गुलीषु॥” इति।[28]

(चक्रवर्ती, २००८)

मनुष्यः प्रारब्धकर्मणः फलमवश्यं प्राप्नुवन्त्येव। अतः एव कालिदासः स्वीयनाटकेषु प्रारब्धकर्मनिमित्तम् भाग्यः, विधिः, भवितव्यता इत्यादीनां पदप्रयोगः कृतवान्। यथा –

  • भवितव्यानां द्वाराणि भवन्ति सर्वत्र। [29]
  • भवितव्यता खलु बलवती। [30]

अनेन प्रतिपद्यते भारतीयदर्शनानुसारं कर्मसिद्धान्तं सम्यग्विचार्य महाकविः कालिदासः अनासक्ततया कर्मणि प्रवर्तनाय सर्वदा उद्धोषितवान्।

 

 

                                                                                 

 

 

 

॥तथ्यसूत्राणि॥

 

 

 

 

[1] काव्यालंकारः

[2] ऋग्वेदः १/१२९/३

[3] ऋग्वेदः १०/९०/१

[4] ऋग्वेदः १०/१२९/४

[5] तैत्तिरीयारण्यकम् ।

[6] विक्रमोर्वशीयम् १/१

[7] अभिज्ञानशकुन्तलम् १/१

[8] तैत्तिरीयोपनिषद् २

[9]  कुमारसम्भवम् २.१४

[10] रघुवंशम् १०/१६

[11] न्यायसूत्रम्

[12] तर्कसंग्रहः

[13] अभिज्ञानशकुन्तलम् १/२०

[14] विक्रमोर्वशीयम् ४

[15] मालविकाग्निमित्रम्

[16] अभिज्ञानशकुन्तलम् ६/११

[17] रघुवंशम् १०/२९

[18] सांख्यकारिका ३

[19] मालविकाग्निमित्रम्

[20] कुमारसम्भवम् २/१३

[21] योगदर्शनम् १

[22] रघुवंशम् १०/२४

[23] तत्रैव १८/३३

[24] वृहदारण्यकोपनिषद्

[25] तैत्तिरीयोपनिषद्

[26] छान्दग्योपनिषद्

[27] अभिज्ञानशकुन्तलम्

[28] तत्रैव

[29] तत्रैव

[30] तत्रैव

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

॥अनुशिलीतग्रन्थसूची॥

 

चक्रवर्ती, स. (२००८). अभिज्ञानशकुन्तलम्. कोलकाता: संस्कृत पुस्तक भाण्डार.

चक्रवर्ती, स. (२०१०). तर्कसंग्रह. कोलकाता: संस्कृत पुस्तक भाण्डार.

चक्रवर्ती, स. (२०१०). सांख्यकारिका. कोलकाता: संस्कृत पुस्तक भाण्डार.

चतुर्वेदी, ब. (२०१४). नाट्यशास्त्रम्. दिल्ली: विद्यानिधि प्रकाशनी.

चौधुरी, ड. स. (२०१६). काव्यालंकार. दिल्ली: परिमल पाव्लिकेशन.

जगदानन्द, स. (२०१५). श्रीमद्भगवद्गीता. कोलकाता: उद्वोधन कार्यालय.

तर्कवागीश, फ. (२०१६). न्यायदर्शनम्. कोलकाता: पश्चिमवङ्ग राज्यपुस्तक पर्षत्.

त्रिपाथी, ड. श. (२०१६). रघुवंशम्. वाराणसी: चौखाम्बा सुरभारती प्रकाशन.

नीलाञ्जना, अ. (२०१५). ऋग्वेदसंहिता. कोलकाता: रामकृष्ण मिशन इन्सटिटिउट अफ कालचार.

पण्डित, प. श. (१८६९). मालविकाग्निमित्रम्. वम्बाई: गभरमेन्ट सेन्ट्राल बुक डिपार्टमेन्ट.

पाण्डेय, प. (२०१६). विक्रमोर्वशीयम्. वाराणसी: चौखाम्बा सुरभारती प्रकाशन.

भट्टाचार्य, अ. (२०११). भारतीय दर्शनेर रूपरेखा. कोलकाता: संस्कृत पुस्तक भाण्डार.

भर्गानन्द, स. (२०१३). पनिषद् ग्रन्थावली (Vol. १). कोलकाता: उद्वोधन कार्यालय.

मिश्र, ह. (२०१७). साहित्यदर्पण. दिल्ली: चौखाम्बा.

वन्द्योपाध्याय, ड. म. (२०१०). मनुसंहिता. कोलकाता: संस्कृत पुस्तक भाण्डार.

वसु, ड. अ. (२९९०). अभिज्ञानशकुन्तलम्. कोलकाता: संस्कृत वुक डिपो.

शर्मा, आ. श. (२०१३). कुमारसम्भवम्. वाराणसी: भारतीय विद्या प्रकाशन.

 

Personal Information:

  1. NITAI PAL,

DEPT. OF SANSKRIT (Nyāya)

NABADWIP VIDYASAGAR COLLEGE,

UNIVERSITY OF KALYANI,

NADIA, WEST BENGAL, PIN: 741302

MAIL: nitaipalrkmv5@gmail.com

M.B:  9064492980

          9474751949 (Whatsapp)

Communication Address: JK Saha Lane, Kanthapota, Krishnagar, Nadia-741101, West Bengal, India.

 

 

 

 

 

***************************************

 

Published

2023-03-24

How to Cite

Dr. Nitai Pal, D. N. P. (2023). कालिदाससृष्टिषु दार्शनिकतत्त्वानां स्वरूपपर्यालोचनम्. Teachers’ Journal, 6(1). Retrieved from https://journal.nvc.ac.in/index.php/tj/article/view/10